पिटः

सुधाव्याख्या

पिटति । ‘पिट शब्दसंख्यानयोः’ (भ्वा० प० से०) । कर्मकर्तरि ‘इगुपध-’ (३.१.१३५) इति कः । क्वुनि (उ० २.३२) ‘पिटकः’ अपि । ‘पिण्डः’-इति स्वामी । तत्र पिण्ड्यते । ‘पिडि सङ्घाते’ (भ्वा० आ० से०) कर्मणि धञ् (३.३.१९) । 'पिण्डो बोले बले सांद्रे देहागारैकदेशयोः । देहमात्रे निवापे च गोलसिल्हकयोरपि । ओण्ड्रपुष्पे च पुंसि स्यात्क्लीबमाजीवनायसोः । पिण्डी च पिण्डतगरेऽलावूखर्जूरभेदयोः’ (इति मेदिनी) ॥