कटः

सुधाव्याख्या

केति । कटति । ‘कटे वर्षादौ’ (भ्वा० प० से०) । अच् (३.१.१३४) । ‘कटः श्रोणौ द्वयोः पुंसि किलिंजेऽतिशये शवे । समये गजगण्डेऽपि पिप्पल्यां तु कटी मता’ (इति मेदिनी) ॥