किलिञ्जकः

सुधाव्याख्या

किल्यतेऽनेन । ‘किल श्वैत्यक्रीडनयोः’ (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । वेत्रवीरणादिः । किलेर्जातः । जनेः ‘पञ्चम्यामजातौ’ (३.२.९८) इति उः । पृषोदरादिः (६.३.१०९) । ‘तत्पुरुषे कृति-’ (६.३.१४) इति (द्वितीयायाः) अलुक्- इति मुकुटः । तन्न । कृद्योगे षष्ठ्या विशेषविधानात् ॥


प्रक्रिया

धातुः -


किलँ श्वैत्यक्रीडनयोः
किल् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किल् + इन् - उणादिसूत्रम् ।
किल् + इ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
जनीँ प्रादुर्भावे
जन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किलि + ङसि + जन् + ड - पञ्चम्यामजातौ 3.2.98
किलि + जन् + अ - चुटू 1.3.7, तस्य लोपः 1.3.9
किलि + ज् + अ - टेः 6.4.143
किलिञ्जक - पृषोदरादीनि यथोपदिष्टम् 6.3.109
किलिञ्जक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
किलिञ्जक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किलिञ्जक + रु - ससजुषो रुः 8.2.66
किलिञ्जक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
किलिञ्जकः - खरवसानयोर्विसर्जनीयः 8.3.15
x000D