स्यूतः

सुधाव्याख्या

स्य्विति । सीव्यते स्म । ‘षिवु तन्तुसन्ताने’ (दि० प० से०) । क्तः (३.३.१०२) । ‘च्छ्वोः-’ (६.४.१९) इत्यूठ् । ‘स्योनप्रसेवौ’ इति मुकुटः । तत्रौणादिको नः । ‘स्योनस्यू तप्रसेवकाः’ इति रभसः ॥