शूर्पम्

सुधाव्याख्या

शूर्पयति, शूर्प्यतेऽनेन वा । ‘शूर्प माने’ (चु० प० से०) । अच् (३.१.१३४) । ‘पुंसि-’ (३.३.१०८) इति घो वा । ‘शुभशतकिंशारुशूर्पांशुकम्’ इति शभेदात्तालव्यादिः । ‘सूर्ये च’ इति पाठाद्दन्त्यादिरपि ॥