अमरकोशः


श्लोकः

दात्रं लवित्रमाबन्धो योत्रं योक्त्रमथो फलम् । निरीशं कुटकं फाल: कृषिको लाङ्गलं हलम् ॥ १३ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 दात्र दात्रम् नपुंसकलिङ्गः दात्यनेन । ष्ट्रन् कृत् अकारान्तः
2 लवित्र लवित्रम् नपुंसकलिङ्गः लूयतेऽनेन । इत्र कृत् अकारान्तः
3 आबन्ध आबन्धम् नपुंसकलिङ्गः आबध्यतेऽनेन । घञ् कृत् अकारान्तः
4 योत्र योत्रम् नपुंसकलिङ्गः यूयतेऽनेन । ष्ट्रन् कृत् अकारान्तः
5 योक्त्र योक्त्रम् नपुंसकलिङ्गः युज्यतेऽनेन । ष्ट्रन् कृत् अकारान्तः
6 फल फलम् नपुंसकलिङ्गः फलति । अच् कृत् अकारान्तः
7 निरीश निरीशम् नपुंसकलिङ्गः ईशाया निर्गतम् । तत्पुरुषः समासः अकारान्तः
8 कुटक कुटकम् नपुंसकलिङ्गः कुटति । क्वुन् उणादिः अकारान्तः
9 फाल फालः पुंलिङ्गः फालयति । अच् कृत् अकारान्तः
10 कृषिक कृषिकः पुंलिङ्गः कृषति । किकन् उणादिः अकारान्तः
11 लाङ्गल लाङ्गलम् नपुंसकलिङ्गः लङ्गति । कलच् बाहुलकात् अकारान्तः
12 हल हलम् नपुंसकलिङ्गः हलति । अच् कृत् अकारान्तः