कृषिकः

सुधाव्याख्या

कृषति । ‘कृष विलेखने’ (तु० उ० अ०) । ‘कृषिवृश्योः किकन्’ (उ० २.४०) । ‘कृषिकाकृषिकौ फालकृषकौ' इति रुद्रात् स्त्रियामपि । क्वुनि (उ० २.३२) तु कृषकः । स्वामी तु–‘शिल्पिनि ष्वुन्’ (३.१.१४५)—इत्याह । तन्न । फलस्य शिल्पित्वाभावात् । परिगणनाच्च । ‘कृषकः पुंसि फाले स्यात्कर्षके त्वभिधेयवत्’ इति विश्वः (मेदिनी) ॥