लाङ्गलम्

सुधाव्याख्या

लेति । लङ्गति । ‘लगि गतौ' (भ्वा० प० से०) । बाहुलकात्कलच् । दीर्घश्च ।-‘कलम्बा(म्बला)दयश्च’-इति मुकुटस्त्वपाणिनीयः । ‘लाङ्गली तोयपिप्पल्यां क्लीबं तु कुसुमान्तरे । गोदारणे तृणराजगृहदारुविशेषयोः’ (इति मेदिनी) ॥