कुटकम्

सुधाव्याख्या

कुटति । ‘कुट कौटिल्ये’ (तु० प० से०) । क्वुन् (उ० २.३२) । मुकुटस्तु-कूटयति छिनत्ति । ‘कूट छेदने’ (चु० उ० से०) । इगुपधत्वात् (३.१.१३५) कः । कूटम् । ततः स्वार्थे कन् (ज्ञापि० ५.४.५) इति वदन् (कूटकम्) दीर्घादि मन्यते । अत्र पचाद्यच् । (३.१.१३४) उचितः । न तु कः । ण्यन्तस्येगुपधत्वाभावात् ॥