फलम्

सुधाव्याख्या

अथविति । फलति । ‘ञिफला विशरणे' (भ्वा० प० से०) । अच् (३.१.१३४) । ‘फलं हेतुफले जातीफले फलकसस्ययोः । त्रिफलायां च कङ्कोले शस्त्राग्रे व्युष्टिलाभयोः । फली फलिन्याम् इति हैमः । स्वामी तु ‘हलम्' इति पठित्वा ‘हलप्रकरणमारब्धम्’ इति व्याख्यत् ॥