निरीशम्

सुधाव्याख्या

ईशाया निर्गतम् । 'निरादयः’ (वा० २.२.१८) इति समासः । स्वामी तु ‘निष्क्रान्ता ईषास्मात्' इति विगृह्य ‘निरीषम्' इति मूर्धन्यान्तं पपाठ ॥