योक्त्रम्

सुधाव्याख्या

युज्यतेऽनेन । ‘युजिर् योगे’ (रु० उ० अ०) । ष्ट्रन् (३.२.१८२) ॥


प्रक्रिया

धातुः -


युजिँर् योगे
युज् - इर इत्संज्ञा वाच्या ।
युज् + ष्ट्रन् - दाम्नीशसयुयुजस्तुतुदसिसिचमिहपतदशनहः करणे 3.2.182
युज् + ट्र - हलन्त्यम् 1.3.3, षः प्रत्ययस्य 1.3.6, तस्य लोपः 1.3.9
युज् + त्र - निमित्तापाये नैमित्तिकस्याप्यपायः । परिभाषा ।
योज् + त्र - पुगन्तलघूपधस्य च 7.3.86
योक्त्र - चोः कुः 8.2.30
योक्त्र + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
योक्त्र + अम् - अतोऽम् 7.1.24
योक्त्रम् - अमि पूर्वः 6.1.107
x000D