अमरकोशः


श्लोकः

ललाटमलिकं गोधिरूर्ध्वे दृग्भ्यां भुवौ स्त्रियौ । कूर्चमस्त्री भ्रुवोर्मध्यं तारकाक्ष्णः कनीनिका ॥ ९२ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 ललाट ललाटम् नपुंसकलिङ्गः ललनम् । तत्पुरुषः समासः अकारान्तः
2 अलिक अलिकम् नपुंसकलिङ्गः अलति, अल्यते, वा । इकन् उणादिः अकारान्तः
3 गोधि गोधिः पुंलिङ्गः गुध्यते । इन् उणादिः इकारान्तः
4 भ्रू भ्रू स्त्रीलिङ्गः भ्रमति । डू उणादिः ऊकारान्तः
5 कूर्च कूर्चः पुंलिङ्गः, नपुंसकलिङ्गः कुरति । चट् बाहुलकात् अकारान्तः
6 तारका तारका स्त्रीलिङ्गः तारयति । ण्वुल् कृत् आकारान्तः
7 कनीनिका कनीनिका स्त्रीलिङ्गः कनति । ईन बाहुलकात् आकारान्तः