तारका

सुधाव्याख्या

तेति । तारयति । ‘तॄ प्लवनादौ’ (भ्वा० प० से०) । ‘ण्वुल्’ (३.१.१३३) । ‘तारका ज्योतिषि’ (वा० ७.३.४५) इतीत्वाभावः । ‘तारको दैत्यभित्कर्णधारयोर्न द्वयोर्दृशि । कनीनिकायामृक्षे च न पुमांस्त्रातरि त्रिषु’ (इति मेदिनी) ॥