कनीनिका

सुधाव्याख्या

कनति । ‘कनी दीप्तौ’ (भ्वा० प० से०) । बाहुलकादीनः । स्वार्थे कन् (ज्ञापि० ५.४.५) । टाप् (४.१.४) । इत्वम् (७.३.४४) । ‘कनीनिका तारकेऽक्ष्णः स्यात्कनिष्ठाङ्गुलावपि’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


कनीँ दीप्तिकान्तिगतिषु
कन् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कन् + ईन - बाहुलकात् ।
कनीन - अकः सवर्णे दीर्घः 6.1.101
कनीन + सु + कन् - न सामिवचने 5.4.5
कनीन + कन् - सुपो धातुप्रातिपदिकयोः 2.4.71
कनीनक - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कनीनक + टाप् - अजाद्यतष्टाप्‌ 4.1.4
कनीनक + आ - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
कनीनका - अकः सवर्णे दीर्घः 6.1.101
कनीनिका - प्रत्ययस्थात्‌ कात्‌ पूर्वस्यात इदाप्यसुपः 7.3.44
कनीनिका + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कनीनिका + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कनीनिका - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68