गोधिः

सुधाव्याख्या

गुध्यते । ‘गुध परिवेष्टने’ (दि० प० से०) । इन् (उ० ४.११८) । गावौ नेत्रे धीयते यस्मिन् । ‘कर्मण्यधिकरणे च’ (३.३.९३) इति किर्वा । पुंस्ययम् । ‘गोधिभालौ महाशङ्खः’ इति त्रिकाण्डशेषात् ॥