भ्रू

सुधाव्याख्या

ऊर्ध्वे इति । भ्रमति । ‘भ्रमु चलने’ (भ्वा० प० से०) । ‘भ्रमेर्डूः’ (उ० २.६८) । यद्वा भ्राम्यति । ‘भ्रमु अनवस्थाने’ (दि० प० से०) । क्विप् (३.२.१७८) । ‘ऊङ् च गमादीनाम्’ इति ‘गमः क्वौ’ (६.४.४०) इत्यत्र वार्तिकेन मलोप ऊङ्क चादेशः ॥