ललाटम्

सुधाव्याख्या

लेति । ललनम् । ‘लल ईप्सायाम्’ (चु० अ० से०) । ‘लड विलासे’ (भ्वा० प० से०) वा । डलयोरेकत्वम् । ललं विलासमीप्सां वा । अटति । ‘अट गतौ’ (भ्वा० प० से०) । ललति । उक्तधातुभ्यां बाहुलकादाटच् ॥