अमरकोशः


श्लोकः

भुजबाहू प्रवेष्टो दो: स्यात्कफोणिस्तु कूर्परः । अस्योपरि प्रगण्ड: स्यात्प्रकोष्ठस्तस्य चास्यधः ॥ ८० ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 भुज भुजः पुंलिङ्गः, स्त्रीलिङ्गः भुज्यतेऽनेन घञ् कृत् अकारान्तः
2 बाहु बाहुः पुंलिङ्गः, स्त्रीलिङ्गः बाधते । कु उणादिः उकारान्तः
3 प्रवेष्ट प्रवेष्टः पुंलिङ्गः प्रवेष्टते । अच् कृत् अकारान्तः
4 दोस् दोस् पुंलिङ्गः दाम्यत्यनेन । डोसि उणादिः सकारान्तः
5 कफोणि कफोणिः पुंलिङ्गः, स्त्रीलिङ्गः कं सुखं स्फोरयति । उणादिः इकारान्तः
6 कूर्पर कूर्परः पुंलिङ्गः, स्त्रीलिङ्गः कुरति । तत्पुरुषः समासः अकारान्तः
7 प्रगण्ड प्रगण्डः पुंलिङ्गः प्रत्यासन्नो गण्डः । तत्पुरुषः समासः अकारान्तः
8 प्रकोष्ठ प्रकोष्ठः पुंलिङ्गः प्रकुष्यतेऽनेन कुसूलादन्नम् । थन् उणादिः अकारान्तः