प्रकोष्ठः

सुधाव्याख्या

प्रेति । प्रकुष्यतेऽनेन कुसूलादन्नम् । ‘कुष निष्कर्षे’ (क्र्या० प० से०) । ‘उषिकुषिगार्तिभ्यस्थन्’ (उ० २.४) । प्रविष्टः कोष्ठं कुसूलम् । ‘अत्यादयः क्रान्ता-’ (वा० २.२.१८) इति समासो वा । ‘प्रकोष्ठमन्तरं विद्यादरत्निमणिबन्धयोः इति कात्यः । ‘प्रकोष्ठो मणिबन्धस्य कूर्परस्यान्तरेऽपि च । भूपकक्षान्तरेऽपि स्यात्’ (इति मेदिनी) ॥