कफोणिः

सुधाव्याख्या

केति । कं सुखं स्फोरयति । ‘स्फुर स्फुरणे सञ्चलने च’ (तु० प० से०) । ण्यन्तः । ‘अच इः’ (उ० ४.१३९) । पृषोदरादिः (६.३.१०९) । यद्वा केन सुखेन फणति, स्फुरति वा । ‘फण गतौ’ (भ्वा० प० से०) । ‘स्फुर सञ्चलने’ (तु० प० से०) वा । इन् (उ० ४.११८) । पृषोदरादिः (६.३ १०९) । ‘कफोणिः कफणिर्द्वयोः’ इति शब्दार्णवः ॥