कूर्परः

सुधाव्याख्या

कुरति । ‘कुर शब्दे’ (तु० प० से०) । क्विप् (३.२.१७८) । कोरणम् । सम्पदादिः (वा० ३.३.१०८) वा पिपर्ति । ‘पॄ पालनपूरणयोः’ (जु० प० से०) । अच् (३.१.१३४) । कूर् चासौ परश्च । यद्वा कुरा शब्देन परः यद्वा कुप्यत्यनेन वा । ‘कुप क्रोधे’ (दि० प० से०) । बाहुलकादरन् दीर्घश्च ॥ ‘कफोणिः कूर्परोऽरत्नेः पृष्ठम्’ इति नाममाला ।


प्रक्रिया

धातुः -


कुरँ शब्दे
कुर् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुर् + क्विप् - अन्येभ्योऽपि दृश्यते 3.2.178
कुर् + व् - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कुर् - वेरपृक्तस्य 6.1.67
पॄ पालनपूरणयोः
पॄ + अच् - नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः 3.1.134
पॄ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
पर् + अ - सार्वधातुकार्धधातुकयोः 7.3.84
कूर् + सु + पर + सु - तत्पुरुषः समानाधिकरणः कर्मधारयः 1.2.42
कूर् + पर - सुपो धातुप्रातिपदिकयोः 2.4.71
कूर्पर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
कूर्पर + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कूर्पर + रु - ससजुषो रुः 8.2.66
कूर्पर + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कूर्परः - खरवसानयोर्विसर्जनीयः 8.3.15