बाहुः

सुधाव्याख्या

बाधते । ‘बाधृ विलोडने’ (भ्वा० आ० से०) । ‘अर्जिदृशिकम्यमि-’ (उ० १.२७) इत्युः, हश्चान्त्यस्य । मुकुटस्तु-वहन्त्यनेन । ’वहिरहितलिपशिध्यश्च’ इत्युण्-इत्याह । तदपाणिनीयत्वादुपेक्ष्यम् । वहेः ‘हलश्च’ (३.३.१२१) इति घञ् । वाहते । ‘वाहृ प्रयत्ने’ । (भ्वा० आ० से०) । अच् (३.१.१३४) वा ‘वाहोऽश्वभुजयोः पुमान्’ इति दामोदरः । ‘वाहो वाहुरिति स्मृतः’ इति देशी कोष: । (वाहोश्वमानयोः । वृषे, वाहा तु बाहौ स्यात् इति हैमः) ॥