भुजः

सुधाव्याख्या

द्वाविति । परौ भुजबाहू । भुज्यतेऽनेन । ‘भुज पालनाभ्यवहारयोः’ (रु० प० अ०) । ‘भुजन्युब्जौ-’ (७.३.६१) इति साधुः । यद्वा भुजति । ‘भुजो कौटिल्ये’ (तु० प० से०) । ‘इगुपध-’ (३.१.१३४) इति कः । ‘अथो भुजा । द्वयोर्बाहौ करे’ (इति मेदिनी) ॥