अमरकोशः


श्लोकः

कन्या कुमारी गौरी तु नग्निकानागतार्तवा । स्यान्मध्यमा दृष्टरजाः तरुणी युवतिः समे ॥ ८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 कन्या कन्या स्त्रीलिङ्गः कनति । यक् उणादिः आकारान्तः
2 कुमारी कुमारी स्त्रीलिङ्गः कम्यते । आरन् उणादिः ईकारान्तः
3 गौरी गौरी स्त्रीलिङ्गः गूयते । रन् उणादिः ईकारान्तः
4 नग्निका नग्निका स्त्रीलिङ्गः नजते स्म । ‘ क्त कृत् आकारान्तः
5 अनागतार्तवा अनागतार्तवा स्त्रीलिङ्गः अनागतमार्तवं रजोऽस्याः ॥ बहुव्रीहिः समासः आकारान्तः
6 मध्यमा मध्यमा स्त्रीलिङ्गः बाल्ययौवनयोर्मध्ये भवा । तद्धितः आकारान्तः
7 दृष्टरजस् दृष्टरजाः स्त्रीलिङ्गः दृष्टं रजो यस्याः, यया, वा ॥ बहुव्रीहिः समासः सकारान्तः
8 तरुणी तरुणी स्त्रीलिङ्गः तरति । उनन् उणादिः ईकारान्तः
9 युवति युवतिः स्त्रीलिङ्गः यौति । कनिन् उणादिः इकारान्तः