कन्या

सुधाव्याख्या

केति । कनति । कन्यते वा । ‘कनी दीप्तौ’ (भ्वा० प० से०) । अघ्न्यादिः (उ० ४.११२) । ‘कन्या नार्यां कुमार्यां च राश्यौषधिविशेषयोः’ इति हैमः । ‘कन्या कुमारिकानार्यो- रौषधीराशिभेदयोः’ (इति मेदिनी) ॥