गौरी

सुधाव्याख्या

गौरीति । गूयते । ‘गुङ् शब्दे’ (भ्वा० आ० अ०) । ‘ऋज्रेन्द्र-’ (उ० २.२८) इत्यादिना रन्नन्तो निपातितः । गौरादित्वात् (४.१.४१) ङीष् । ‘गौरी त्वसंजातरजःकन्याशंकरभार्ययोः । रोचनीरजनीपिङ्गाप्रियंगुवसुधासु च । आपगाया विशेषेऽपि यादसांपतियोषिति’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


गु - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गौ + रन् - ऋज्रेन्द्राग्रवज्रविप्रकुव्रचुव्रक्षुरखुरभद्रोग्रभेरभेलशुक्रशुक्लगौरवम्रेरामालाः (२.२८) । उणादिसूत्रम् ।
गौर - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
गौर + ङीष् - षिद्गौरादिभ्यश्च 4.1.41
गौर + ई - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
गौर् + ई - यस्येति च 6.4.148
गौरी + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
गौरी + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
गौरी - हल्ङ्याब्भ्यो दीर्घात्‌ सुतिस्यपृक्तं हल् 6.1.68