कुमारी

सुधाव्याख्या

कम्यते । ‘कमु कान्तौ’ (भ्वा० आ० से०) । ‘कमेः किदुच्चोपधायाः (उ० ३.१३८) इत्यारन् । 'वयसि प्रथमे’ (४.१.२०) इति ङीप् । पूर्वत्र तु न । ‘कन्यायाः कनीन च’ (४.१.११६) इति लिङ्गात् । यद्वा कुमारयति । ‘कुमार क्रीडायाम्’ (चु० उ० से०) । अच् (३.१.१३४) । कुत्सितो मारोऽस्या वा । ‘कुमारः स्याच्छुके स्कन्दे युवराजेऽश्ववारके । बालके वरुणद्रौ ना न द्वयोर्जात्यकाञ्चने’ (इति मेदिनी) । ‘कुमारी रामतरुणीनवमाल्योर्नदीभिदि । कन्यापराजितागौरीजम्बूद्वीपेषु च स्मृता’ इति विश्वः । (‘जम्बूद्वीपविभागे च’ इति हैमः) ॥