युवतिः

सुधाव्याख्या

यौति । ‘यु मिश्रणे’ (अ० प० अ०) । ‘कनिन्युवृषि-’ (उ० १.१५६) इति कनिन् । 'यूनस्तिः’ (४.१.७७) । यत्तु-‘यौतेः कतिः’ इति कतिप्रत्ययान्तात् पाक्षिके ङीषि (ग० ४.१.४५) । ‘युवती’- इति मुकुटो व्याचख्यौ । तन्न । यौतेः शत्रन्तात् ङीपि (४.१.१५), युवतिशब्दाद्वा ‘सर्वतोऽक्ति- न्नर्थात्’ (ग० ४.१.४५) इति ङीषा गतार्थत्वात् । उज्ज्वलदत्तादिषूक्तसूत्राभावाच्च । स्त्रीसामान्येऽप्ययम् । ‘प्रमदा चेति विज्ञेया प्रमदा युवतिस्तु तथा स्मृता’ इति भागुरिः ॥


प्रक्रिया

धातुः -


यु + कनिन् - कनिन् युवृषितक्षिराजिधन्विद्युप्रतिदिवः (१.५६) उणादिसूत्रम् ।
यु + अन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
यु + उवङ् + अन् - अचि श्नुधातुभ्रुवां य्वोरियङुवङौ 6.4.77
य् + उव् + अन् - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युवन् + ति - यूनस्तिः 4.1.77
युव + ति - नलोपः प्रातिपदिकान्तस्य 8.2.7
युवति + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
युवति + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युवति + रु - ससजुषो रुः 8.2.66
युवति + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
युवतिः - खरवसानयोर्विसर्जनीयः 8.3.15