मध्यमा

सुधाव्याख्या

स्यादिति । बाल्ययौवनयोर्मध्ये भवा । ‘मध्यान्मः’ (४.३.८) । तयोर्मध्ये मा शोभा यस्याम्, वा । ‘मध्यमो मध्यजेऽन्यवत् । पुमान् स्वरे मध्यदेशेऽप्यवलग्ने तु न स्त्रियाम् । स्त्रियां दृष्टरजोनार्यां कर्णिकाङ्गुलिभेदयोः । त्र्यक्षरच्छन्दसि तथा’ (इति मेदिनी) ॥