तरुणी

सुधाव्याख्या

तेति । तरति । ‘तॄ प्लवनतरणयोः’ (भ्वा० प० से०) । ‘त्रो रश्च लो वा’ (उ० ३.५४) इत्युनन् । ‘वयसि-’ (४.१.२०) इति ङीप् । ‘नञ्स्नञीकक्-’ (वा० ४.१.१५) इति वा । ‘तरुणी तलुनीति च’ इति शब्दभेदः । (‘तलुनः पवने यूनि युवत्यां तलुनी स्मृता’ इति मेदिनी) ॥