अमरकोशः


श्लोकः

रुधिरेऽसृग्लोहितास्ररक्तक्षतजशोणितम् । वुक्काऽग्रमांसं हृदयं हन्मेदस्तु वपा वसा ॥ ६४ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रुधिर रुधिरम् नपुंसकलिङ्गः रुणद्धि । किरच् उणादिः अकारान्तः
2 असृज् असृक् नपुंसकलिङ्गः न सृजति वा । ऋज बाहुलकात् जकारान्तः
3 लोहित लोहितम् नपुंसकलिङ्गः रुह्यते वा । इतच् उणादिः अकारान्तः
4 अस्र अस्रम् नपुंसकलिङ्गः अस्यते । रक् उणादिः अकारान्तः
5 रक्त रक्तम् नपुंसकलिङ्गः रज्यते स्म । क्त कृत् अकारान्तः
6 क्षतज क्षतजम् नपुंसकलिङ्गः क्षताज्जातम् । कृत् अकारान्तः
7 शोणित शोणितम् नपुंसकलिङ्गः शोणति स्म । क्त कृत् अकारान्तः
8 बुक्का बुक्का पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वुङ्क्यते स्वादुत्वान्मृग्यते । घञ् कृत् आकारान्तः
9 अग्रमांस अग्रमांसम् नपुंसकलिङ्गः अग्रं मुख्यं मांसम् ॥ तत्पुरुषः समासः अकारान्तः
10 हृदय हृदयम् नपुंसकलिङ्गः हरति । कयन् उणादिः अकारान्तः
11 हृद् हृद्म् नपुंसकलिङ्गः हरति । दुक् बाहुलकात् दकारान्तः
12 मेदस् मेदस्म् नपुंसकलिङ्गः मेद्यति । असुन् उणादिः सकारान्तः
13 वपा वपा स्त्रीलिङ्गः उप्यते वा । अच् कृत् आकारान्तः
14 वसा वसा स्त्रीलिङ्गः वसति, वस्ते, वा । अच् कृत् आकारान्तः