असृक्

सुधाव्याख्या

अस्यते । ‘असु क्षेपणे’ (दि० प० से०) । बाहुलकादृजः । न सृजति वा । ‘सृज विसर्गे’ (तु० प० अ०) । क्विप् । ‘क्विन्प्रत्य-’ (८.२.६२) इति कुः । ‘क्विन् प्रत्ययो यस्मात्’ इति बहुव्रीहिः । ‘ऋत्विग्दधृक्स्रक्-’ (३.२.५९) इति हि सृजेः क्विन् विहितः ॥