रुधिरम्

सुधाव्याख्या

रुधीति । रुणद्धि । रुध्यते वा । ‘रुधिर् आवरणे’ (रु० उ० अ०) । ‘इषिमदिमुदि-’ (उ० १.५१) इति किरच् । ‘रुधिरोऽङ्गारके पुंसि क्लीबं तु कुङ्कमासृजोः’ (इति मेदिनी) ॥


प्रक्रिया

धातुः -


रुधिँर् आवरणे
रुध् - इर इत्संज्ञा वक्तव्या (1.3.7) । वार्तिकम् ।
रुध् + किरच् - इषिमदिमुदिखिदिच्छिदिभिदिमन्दिचन्दितिमिमिहिमुहिमुचिरुचिरुधिबन्धिशुषिभ्यः किरच् (१.५१) । उणादिसूत्रम् ।
रुध् + इर - हलन्त्यम् 1.3.3, लशक्वतद्धिते 1.3.8, तस्य लोपः 1.3.9
रुधिर + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
रुधिर + अम् - अतोऽम् 7.1.24
रुधिरम् - अमि पूर्वः 6.1.107