बुक्का

सुधाव्याख्या

ब्विति । वुङ्क्यते स्वादुत्वान्मृग्यते । ‘वुङ्क भषणे’ (भ्वा प० से०) । घञ् (३.३.१९) । शोणितेषु स्त्रियां वृक्का वृक्कं सुरसमद्वयोः इति रभसः । ‘उरस्यपि वुक्कायां हृदयं मानसेऽपि च’ इति त्रिकाण्डशेषः ॥