रक्तम्

सुधाव्याख्या

रज्यते स्म । ‘रञ्ज रागे’ (भ्वा० उ० अ०) । क्तः (३.२.१०२) । ‘रक्तोऽनुरक्ते नील्यादिरञ्जिते लोहिते त्रिषु । क्लीबं तु कुङ्कुमे ताम्रे प्राचीनामलकेऽसृजि’ (इति मेदिनी) ॥