अमरकोशः


श्लोकः

रोगहार्यगदंकारो भिषग्वैद्यौ चिकित्सके । वार्तो निरामयः कल्य उल्लाघो निर्गतो गदात् ॥ ५७ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 रोगहारिन् रोगहारिन् पुंलिङ्गः रोगं हरति तच्छीलः णिनि कृत् नकारान्तः
2 अगदंकार अगदंकारः पुंलिङ्गः अगदमरोगं जन्तुं करोति । अण् कृत् अकारान्तः
3 भिषज् भिषक् पुंलिङ्गः भिषज्यति । यक् कृत् जकारान्तः
4 वैद्य वैद्यः पुंलिङ्गः विद्यामधीते । अण् तद्धितः अकारान्तः
5 चिकित्सक चिकित्सकः पुंलिङ्गः चिकित्सति । ण्वुल् कृत् अकारान्तः
6 वार्त वार्तः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः वृत्तिरस्यास्ति । तद्धितः अकारान्तः
7 निरामय निरामयः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्कान्त आमयात् । तत्पुरुषः समासः अकारान्तः
8 कल्य कल्यः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः निष्कान्त आमयात् । यत् तद्धितः अकारान्तः
9 उल्लाघ उल्लाघः पुंलिङ्गः, स्त्रीलिङ्गः, नपुंसकलिङ्गः उल्लाघते स्म । क्त कृत् अकारान्तः