उल्लाघः

सुधाव्याख्या

उल्लाघते स्म । ‘लाघृ सामर्थ्ये’ (भ्वा० आ० से०) । ‘गत्यर्था-’ (३.४.७२) इति क्तः । उल्लाघ्यते स्म, इति वा । ‘अनुपसर्गात्पुल्ल-’ (८.२.५५) इति साधुः । ‘उल्लाघो निपुणे हृष्टे शुचिनीरोगयोरपि’ इति हैमः ॥