अगदंकारः

सुधाव्याख्या

अगदमरोगं जन्तुं करोति । ‘कर्मण्यण्’ (३.२.१) ‘कारे सत्यागदस्य’ (६.३.७०) इति मुम् ॥


प्रक्रिया

धातुः -


डुकृञ् करणे
कृ - आदिर्ञिटुडवः 1.3.5, हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अगद + अम् + कृ + अण् - कर्मण्यण् 3.2.1, उपपदमतिङ् 2.2.19
अगद + कृ + अण् - सुपो धातुप्रातिपदिकयोः 2.4.71
अगद + कृ + अ - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
अगद + कार् + अ - अचो ञ्णिति 7.2.115
अगद + मुम् + कार - कारे सत्यागदस्य 6.3.70
अगद + म् + कार - हलन्त्यम् 1.3.3, उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अगदंकार - नश्चापदान्तस्य झलि 8.3.24
अगदङ्कार - अनुस्वारस्य ययि परसवर्णः 8.4.58
अगदङ्कार + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
अगदङ्कार + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अगदङ्कार + रु - ससजुषो रुः 8.2.66
अगदङ्कार + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
अगदङ्कारः - खरवसानयोर्विसर्जनीयः 8.3.15