चिकित्सकः

सुधाव्याख्या

चिकित्सति । ‘कितेर्व्याधिप्रतीकारे’ इति सन्नन्तात् ण्वुल् (३.१.१३३) ॥


प्रक्रिया

धातुः -


कितँ निवासे रोगापनयने व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च
कित् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
कित् + सन् - कितेर्व्याधिप्रतीकारे निग्रहे अपनयने नाशने संशये च (3.1.6) । वार्तिकम् ।
कित् + स - हलन्त्यम् 1.3.3, तस्य लोपः 1.3.9
कित् + कित् + स - सन्यङोः 6.1.9
कि + कित् + स - हलादिः शेषः 7.4.60
चि + कित् + स - कुहोश्चुः 7.4.62
चिकित्स + ण्वुल् - ण्वुल्तृचौ 3.1.133
चिकित्स + वु - हलन्त्यम् 1.3.3, चुटू 1.3.7, तस्य लोपः 1.3.9
चिकित्स + अक - युवोरनाकौ 7.1.1
चिकित्सक - अतो लोपः 6.4.48
चिकित्सक + सु - स्वौजसमौट्छष्टाभ्याम्भिस्ङेभ्याम्भ्यस्ङसिभ्याम्भ्यस्ङसोसाम्ङ्योस्सुप्‌ 4.1.2
चिकित्सक + स् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिकित्सक + रु - ससजुषो रुः 8.2.66
चिकित्सक + र् - उपदेशेऽजनुनासिक इत् 1.3.2, तस्य लोपः 1.3.9
चिकित्सकः - खरवसानयोर्विसर्जनीयः 8.3.15