निरामयः

सुधाव्याख्या

निष्क्रान्त आमयात् । ‘निरादयः-’ (वा० २.२.१८) इति समासः । ‘निरामयस्तु स्यादिडिक्के विगतामये’ इति हैमः । ‘निरामयस्तु पुंसि स्यादिडिक्के त्रिषु नीरुजे’ इति विश्वमेदिन्यौ ॥