अमरकोशः


श्लोकः

स्यादेडे बधिरः कुब्जे गडुलः कुकरे कुणिः । पृश्निरल्पतनौ श्रोणः पङ्गौ मुण्डस्तु मुण्डिते ॥ ४८ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 एड एडः पुंलिङ्गः आ इलति । अच् कृत् अकारान्तः
2 बधिर बधिरः पुंलिङ्गः बध्नाति कर्णम्, बध्यते वा । किरच् उणादिः अकारान्तः
3 कुब्ज कुब्जः पुंलिङ्गः कौ उब्जति । अच् कृत् अकारान्तः
4 गडुल गडुलः पुंलिङ्गः गडति, गड्यते, वा । बाहुलकात् अकारान्तः
5 कुकर कुकरः पुंलिङ्गः कुत्सितः करोऽस्य ॥ बहुव्रीहिः समासः अकारान्तः
6 कुणि कुणिः पुंलिङ्गः कुणति, कुण्यते, वा । इन् उणादिः इकारान्तः
7 पृश्नि पृश्निः पुंलिङ्गः स्पृशति, स्पृश्यते वा । नि उणादिः इकारान्तः
8 अल्पतनु अल्पतनुः पुंलिङ्गः अल्पा तनुरस्य ॥ बहुव्रीहिः समासः उकारान्तः
9 श्रोण श्रोणः पुंलिङ्गः श्रोणति । अच् कृत् अकारान्तः
10 पङ्गु पङ्गुः पुंलिङ्गः पनते । गु बाहुलकात् उकारान्तः
11 मुण्ड मुण्डः पुंलिङ्गः मुण्ड्यते । घञ् कृत् अकारान्तः
12 मुण्डित मुण्डितः पुंलिङ्गः मुण्ड्यते स्म । क्त कृत् अकारान्तः