श्रोणः

सुधाव्याख्या

श्रविति । श्रोणति । ‘श्रोणृ संघाते’ (भ्वा० प० से०) । अच् (३.१.१३४) । यत्तु- शृणोति । ‘रास्नादयः’ इति नक् प्रत्ययादिः इति मुकुटः । तन्न । ‘रास्नादयः’ इति सूत्राभावात् । नगादेर्विधायकाभावाच्च ॥