कुणिः

सुधाव्याख्या

कुणति, कुण्यते, वा । ‘कुण शब्दोपकरणयोः’ (तु० प० से०) । ‘इगुपधात् कित्’ (उ० ४.१२०) इतीन् । ‘कुणिस्तुन्नकवृक्षे ना कुकरे त्वभिधेयवत्’ (इति मेदिनी) ॥ निसर्गतः कूणिपङ्गुपौगण्डाः’ इति नाममालायामार्यापाठाद्दीर्घोकारवानपि ॥