पृश्निः

सुधाव्याख्या

प्रिति । स्पृशति, स्पृश्यते वा । ‘स्पृश संस्पर्शे’ (तु० प० अ०) । ‘घृणिपृश्निपार्ष्णि-’ (उ० ४.५२) इति साधुः । पृच्छति, पृच्छयते, वा ‘प्रच्छ ज्ञीप्सायाम्’ (तु० प० अ०) । पर्षति, पृष्यते, वा । ‘पृषु सेचने’ (भ्वा० प० सं०) वा ॥