गडुलः

सुधाव्याख्या

गडति, गड्यते, वा । ‘गड सेचने’ (भ्वा० प० से०) । बाहुलकादुः गडुरस्यास्ति । सिध्मादित्वात् (५.२.९७) लच् । ‘गडुः पृष्ठगुडे कुब्जे’ (इति मेदिनी) ॥