अमरकोशः


श्लोकः

सूतिमासो वैजननो गर्भो भ्रूण इमौ समौ । तृतीया प्रकृतिः शण्ढ: क्लीब: पण्डो नपुंसकम् ॥ ३९ ॥

शब्दसङ्ख्या प्रातिपदिकम् प्रथमान्तःशब्दः लिङ्गम् व्युत्पत्तिः प्रत्ययः/ समासनाम वृत्तिः/शब्दप्रकारः किमन्तः शब्दः
1 सूतिमास सूतिमासः पुंलिङ्गः सूतेः प्रसवस्य मासः ॥ तत्पुरुषः समासः अकारान्तः
2 वैजनन वैजननः पुंलिङ्गः विजायतेऽस्मिन् । ल्युट् कृत् अकारान्तः
3 गर्भ गर्भः पुंलिङ्गः गीर्यते उदीर्यते शब्द्यते वा । भन् उणादिः अकारान्तः
4 भ्रूण भ्रूणः पुंलिङ्गः भ्रूण्यते । घञ् कृत् अकारान्तः
5 तृतीयाप्रकृति तृतीयाप्रकृतिः पुंलिङ्गः स्त्रीपुंसावपेक्ष्य तृतीया प्रकृतिः = तृतीयः प्रकारः । तत्पुरुषः समासः इकारान्तः
6 शण्ढ़ शण्ढः पुंलिङ्गः शाम्यति । उणादिः
7 क्लीब क्लीबः पुंलिङ्गः, नपुंसकलिङ्गः क्लीबते । कृत् अकारान्तः
8 पण्ड पण्डः पुंलिङ्गः पण्डते । अच् कृत् अकारान्तः
9 नपुंसक नपुंसकः पुंलिङ्गः, नपुंसकलिङ्गः तत्पुरुषः समासः अकारान्तः