वैजननः

सुधाव्याख्या

विजायतेऽस्मिन् । ‘करणा-’ (३.३.११७) इति ल्युट् । विजनन एव । प्रज्ञाद्यण् (५.४.३८) । यद्वा विजननस्य गर्भमोचनस्यायम् । ‘तस्येदम्’ (४.३.१२०) इत्यण् । ‘नवमे दशमे वापि प्रबलैः सूतिमारुतैः । निःसार्यते बाण इव जन्तुश्छिद्रेण सत्वरः’ ॥