क्लीबः

सुधाव्याख्या

क्लीबते । ‘क्लीबृ अधार्ष्ट्ये’ (भ्वा० आ० से०) । ‘इगुपध-’ (३.१.१३५) इति कः । ‘अस्त्री नपुंसके क्लीबं वाच्यलिङ्गस्त्वविक्रमे’ इति रुद्रः ॥