गर्भः

सुधाव्याख्या

गर्भ इति । गीर्यते उदीर्यते शब्द्यते वा । ‘गॄ निगरणे' (तु० प० से०) । ‘गॄ शब्दे’ (क्र्या० प० से०) वा । ‘अर्तिगभ्यां भन्’ (उ० ३.१५२) । ‘गर्भो भ्रूणेऽर्भके कुक्षौ संधौ पनसकण्टके’ इति विश्वमेदिन्यौ ॥